|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.257. अध्यायः 257
Mahabharata - Vana Parva - Chapter Topics
दुर्योधनेन यज्ञसमापनानन्तरं सतहुमानं प्राहुणिकविप्रनृपेप्रषणपूर्वकं निजनगरप्रवेशनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-257-0x(2629)(25854)
ततस्तु शिल्पिनः सर्वं कृतमूर्चुर्नराधिपम्।
विदुरश्च महाप्राज्ञो धृतराष्ट्रे न्यवेदयत् ॥ 3-257-1(25855)
सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत।
सौवर्णं च कृतं सर्वं लाङ्गलं च महाधनम् ॥ 3-257-2(25856)
एवच्छ्रुत्वा नृपश्रेष्ठो धृतराष्ट्रो विशंपते।
आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् ॥ 3-257-3(25857)
ततः प्रववृते यज्ञः प्रभूतार्थः सुसंस्कृतः।
दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् ॥ 3-257-4(25858)
प्रहृष्टो धृतराष्ट्रश्च विदुरश्च महायशाः।
भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी ॥ 3-257-5(25859)
निमन्त्रणार्थं दूर्तांश्च प्रेषयामास शीघ्रगान्।
पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च ॥ 3-257-6(25860)
ते प्रयाता यथोद्दिष्टा दूतास्त्वरितवाहनाः।
तत्र कचित्प्रयान्तं तु दूतं दुःशासनोऽब्रवीत् ॥ 3-257-7(25861)
गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान्।
निमन्त्रय यथान्यायं विप्रांस्त स्मिन्वने तदा ॥ 3-257-8(25862)
स गत्वा पाण्डवान्सर्वानुवाचाभिप्रणम्य च।
दुर्योधनो महाराज यजते नृपसत्तमः ॥ 3-257-9(25863)
स्ववीर्यार्जितमर्थौघमवाप्य कुरुसत्तमः।
तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः ॥ 3-257-10(25864)
अहं तु प्रेषितो राजन्कौरवेण महात्मना।
आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः।
मनोभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ ॥ 3-257-11(25865)
ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम्।
अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः।
यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः ॥ 3-257-12(25866)
वयमप्युपयास्यामो न त्विदानीं कथंचन।
समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् ॥ 3-257-13(25867)
श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत्।
तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः ॥ 3-257-14(25868)
अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति।
वर्षात्रयोदशादूर्ध्वं रणसत्रे नराधिपः ॥ 3-257-15(25869)
यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः।
आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः ॥ 3-257-16(25870)
शेषास्तु पाण्डवा राजन्नैवोचुः किंचिदप्रियम्।
दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् ॥ 3-257-17(25871)
अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः।
ब्राह्मणाश्च महाभाग धार्तराष्ट्रपुरं प्रति ॥ 3-257-18(25872)
ते त्वर्चिता यथाशास्त्रं यथाविधि यथाक्रमम्।
मुदा परमया युक्ताः प्रीताश्चापि नरेश्वराः ॥ 3-257-19(25873)
धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः।
हर्षेण महता युक्तो विदुरं प्रत्यभाषत ॥ 3-257-20(25874)
यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः।
तुष्येत्तु यज्ञसदने तथा नीतिर्विधीयताम् ॥ 3-257-21(25875)
विदुरस्तु तदाज्ञाय सर्ववर्णानरिंदम।
यथा प्रमाणतो विद्वान्पूजयामास धर्मवित् ॥ 3-257-22(25876)
भक्ष्यपेयान्नपानेन माल्यैश्चापि सुगन्धिभिः।
वासोभिर्विविधैश्चैव योजयामास हृष्टवत् ॥ 3-257-23(25877)
कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम्।
सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु।
विसर्जयामास नपान्ब्राह्मणांश्च सहस्रशः ॥ 3-257-24(25878)
विसृज्यच नृपान्सर्वान्भ्रातृभिः परिवारितः।
विवेश हास्तिनपुरं सहितः कर्णसौबलैः ॥ 3-257-25(25879)
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 257 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-257-25 कर्णसौबलैः सौबलाद्यैः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|